|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.267. अध्यायः 267
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति धर्मप्रमाणनिरूपणम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने।
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः॥ 13-267-1(92098)
निर्णये वा महाबुद्धे सर्वधर्मविदांवर।
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्॥ 13-267-2(92099)
भीष्म उवाच। 13-267-3x(7709)
नास्त्यत्रि संशयः कश्चिदिति मे वर्तते मतिः।
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि॥ 13-267-3(92100)
संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः।
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शन्॥ 13-267-4(92101)
प्रत्यक्षं कारणं दृष्टं हैतुकं प्राज्ञमानिनः।
नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा॥ 13-267-5(92102)
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः।
अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति॥ 13-267-6(92103)
शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च।
प्राणयात्रामनेकां च कल्पयानेन भारत॥ 13-267-7(92104)
तत्परेणैव नान्येन शक्यते तत्तु कारणम्।
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्॥ 13-267-8(92105)
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते।
न त्वेव गमनं राजन्हेतुतो गमनं तथा।
अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत्॥ 13-267-9(92106)
युधिष्ठिर उवाच। 13-267-10x(7710)
प्रत्यिक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः।
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामहः॥ 13-267-10(92107)
भीष्म उवाच। 13-267-11x(7711)
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते॥ 13-267-11(92108)
अधर्मो धर्मरूपेण तृणैः कूप इवावृतः।
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर॥ 13-267-12(92109)
अवृत्त्या ये तु निन्दनि श्रुतत्यागपरायणाः।
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः॥ 13-267-13(92110)
अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः।
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च॥ 13-267-14(92111)
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ।
धर्म इत्येव सम्बुद्धस्तानुपास्स्व च पृच्छ च॥ 13-267-15(92112)
न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च।
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः॥ 13-267-16(92113)
युधिष्ठिर उवाच। 13-267-17x(7712)
पुनरेव हि मे बुद्धि संशये परिमुह्यति।
अपरो मज्जमानस्य परं तीरमपश्यतः॥ 13-267-17(92114)
वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि।
पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम्॥ 13-267-18(92115)
भीष्म उवाच। 13-267-19x(7713)
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः।
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा॥ 13-267-19(92116)
एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम्।
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा॥ 13-267-20(92117)
[उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर।
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्॥ 13-267-21(92118)
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः।
अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर॥ 13-267-22(92119)
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्।
अजातशत्रो सेवस्य धर्म एष सनातनः॥] 13-267-23(92120)
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता।
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः॥ 13-267-24(92121)
प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः।
न स प्रमाणतामर्हो विषादजननो हि सः॥ 13-267-25(92122)
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च।
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्॥ ॥ 13-267-26(92123)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः॥ 267 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-267-2 श्रुतिप्रत्यक्षयोः किं बलवदिति प्रश्नः॥ 7-267-4 श्रुत्यपेक्षया प्रत्यक्षं प्रबलं क्वचित्प्रत्यक्षापेक्षया श्रुतिरित्यर्थः॥ 7-267-6 यदि त्वमपि एकमसंहतं ब्रह्म कारणं कथं भवेदिति संशयवानसि तर्हि दीर्घकालसेवनादिनाऽयमर्थो युक्तेन योगेन वेदितुं शक्यः॥ 7-267-8 हेतूनामन्त्रिते वापि धर्मशास्त्रेण चोत्तमम् इति क.ट.थ.पाठः॥ 7-267-9 लोकस्य प्रकाशं प्रतिपद्यत इति। तत्वागमसमे राजन्हेत्वन्तगमने तथेति च क.ट.थ.पाठः॥ 7-267-10 लोकतः सिद्धिरनुमानं आगमपूर्वः शिष्टचारश्चेति प्रमाणानि एतेषां मध्ये किं प्रबलमिति प्रश्नार्थः॥ 7-267-11 धर्मस्य प्रीयमाणस्य बलवद्भिर्महात्मभिः इति, काले विपरिविद्यत इति च क.ट.थ.पाठः॥ 7-267-12 वृत्तं शिष्टाचारः॥ 7-267-13 निन्दन्ति वृत्तम्। तेषु प्रत्यक्षानुमानाचारेषु॥ 7-267-14 अतृप्यन्तो नित्यं सोत्कण्ठाः। आगमजन्या बुद्धयो येषां ते। परं श्रेष्ठं प्रमाणमित्यन्वयः॥ 7-267-16 वृत्तं शीलम्। आचारः शौचादिः। कारणं वेदः। त्रयं मिलित्वा एको धर्मः। स धर्मः साधानीय इत्यर्थः। येनैषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः। मूलावारस्तु साधूनां यज्ञस्वाध्यायवृत्तत इति क.ट.थ.पाठः॥ 7-267-19 हे राजन्, यद्येवं धर्मत्रयं मन्यसे तन्नेति शेषः। किन्तु ह्रियमाणस्यैकस्यैव धर्मस्य त्रिधा त्रिप्रकारा विचारणा। एकएव प्रमाणत्रयुसंवादेन परीक्षणीय इत्यर्थः॥ 7-267-20 त्रिधेत्यस्य व्याख्यानं एकएवेति। त्रयाणां प्रमाणानां पृथक्त्वे प्रत्येकं स्वातन्त्र्येण धर्मप्रतिपादकत्वे मम बुद्धिर्न च। एवमेव विजानीहि इति क.ट.थ.पाठः॥ 7-267-22 अशङ्की शङ्काशून्यः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|